| YouTube Channel

मृग्यम्।]] (mRgyam|]])

 
कृदन्तरूपमाला
Sanskrit
1 {@“यभ मैथुने”@} 2 3 ‘यभ विपरीतमैथुने’ इति क्षीरस्वामि-माधवादिसम्मतः पाठः।
‘--विपरीते मैथुने’ इति धा।
का।
व्याख्या 4 दृष्टः पाठः।
“भय विपरीतो मैथुने’
विपरीत इति--यभ इत्यर्थः।” इति पुरुष- कारः।
‘जभ--’ इति चवर्गतृतीयादिं केचित् पठन्ति।
धनपाल-काश्य- पादयः ‘यभ--’ इति पठित्वा, ‘जभ च’ इति पठन्तीति ग्रन्थेषु तत्र तत्रोदाहरणाज्ज्ञायते।
‘रभिश्च भान्तेष्वथ मैथुने यभिः’ 5 इत्यत्र वृत्त्यादिषु यभतेरेवोदाहरणात् ‘जभ--’ इति पाठोऽप्रामाणिक इति पुरुषकारे 6 निरूपितम्।
‘जभि--’ इत्यपि कुत्रचिद् दृष्टः पाठः।
“-- ‘विपरीत इति।
विपरीतानुष्ठित इत्यर्थः।’ इति मैत्रेयः।।” इति धातुवृत्तिः।
“तच्च पुरुषायितम्।” इति धा।
का व्याख्या।
एवं बहुधाऽत्र धातौ, स्वरूपविषयेऽर्थविचारे विप्रतिपत्तिः ग्रन्थकृतां दृश्यते।
प्रसिद्धपाठस्तु यभ इत्येवेति प्रामाणिकाः।
‘यभस्व नित्यं यदि शक्तिरस्ति--’ 7 इत्यादिषु धातोरस्यात्मनेपदप्रयोगो दृश्यते।
तत्र प्रमाणं मृग्यम्।]] याभकः-भिका, याभकः-भिका, 8 यियप्सकः-सिका, यायभकः-भिका
9 यब्धा-यब्ध्री, याभयिता-त्री, यियप्सिता-त्री, यायभिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकतपतिवत् 10 ज्ञेयानि।
11 याभः।
12
प्रासङ्गिक्यः
01
=>
(१३३९)
02
=>
(१-भ्वादिः-९८०। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(२-३९)
05
=>
(अनिट्कारिका, भाष्ये ७-२-१०)
06
=>
(श्लो। १४५)
07
=>
(मुक्तकम्)
08
=>
[[१। ‘--अथ मैथुने यभिः’ इत्यनिट्कारिकासु (भाष्ये ७-२-१०) पाठात् धातोरस्यानिट्त्वम्। ‘खरि च’ (८-४-५५) इति चर्त्वेन भकारस्य पकारः।]]
09
=>
[[२। तृजादिषु, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वेन धकारे, ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वे रूपनिष्पत्तिर्ज्ञेया।]]
10
=>
(७०३)
11
=>
[[B। ‘याभाद्यकामैर्नमनाद् गताद्यैः सृप्योऽसि विष्णो यमिभिर्वितापैः।।’ धा। का। २-३९।]]
12
=>
[पृष्ठम्१०७०+ ३०]